|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.60. अध्यायः 060
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति आश्रमचतुष्टयधर्मकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-60-0x(6684)(80753)
आश्रमाणां महाबाहो शृणु सत्यपराक्रम।
चतुर्णामपि नामानि कर्माणि च युधिष्ठिर॥ 12-60-1(80754)
वानप्रस्थं भैक्षचर्यं गार्हस्थ्यं च महाश्रमम्।
ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्रह्मणेरितम्॥ 12-60-2(80755)
चूडाकरणसंस्कारं द्विजातित्वमवाप्य च।
आधानादीनि कर्माणि प्राप्य वेदानधीत्य च॥ 12-60-3(80756)
सदारो वाऽप्यदारो वा विनीतः संयतेन्द्रियः।
वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात्॥ 12-60-4(80757)
तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित्।
ऊर्ध्वरेताः प्रजा हित्वा गच्छत्यक्षरसात्मताम्॥ 12-60-5(80758)
एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम्।
कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता॥ 12-60-6(80759)
चरितब्रह्मचर्यस्य ब्राह्मणस्य विशांपते।
भैक्षचर्यास्वधीकारः प्रशस्तो देहमोक्षणे॥ 12-60-7(80760)
यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः।
यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः॥ 12-60-8(80761)
निराशीर्निर्नमस्कारो निर्भोगो निर्विकारवान्।
विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम्॥ 12-60-9(80762)
अधीत्य वेदान्कृतसर्वकृत्यः
संतानमुत्पाद्य सुखानि भुक्त्वा।
समाहितः प्रचरेद्दुश्चरं तं
गार्हस्थ्यधर्मं मुनिधर्मजुष्टम्॥ 12-60-10(80763)
स्वदारतुष्टस्त्वृतुकालगामी
नियोगसेवी न शठो न जिह्नः।
मिताशनो देवरतः कृतज्ञः
सत्यो मृदुश्चानृशंसः क्षमावान्॥ 12-60-11(80764)
दान्तो विधेयो हव्यकव्याप्रमत्तो
ह्यन्नस्य दाता सततं द्विजेभ्यः।
अमत्सरी सर्वलिङ्गप्रदाता
वैताननित्यश्च गृहाश्रमी स्यात्॥ 12-60-12(80765)
अथात्र नारायणगीतमाहु
र्महर्षयस्तात महानुभावाः।
महार्थमत्यन्ततपः प्रयुक्तं
तदुच्यमानं हि मया निबोध॥ 12-60-13(80766)
सत्यार्जवं चातिथिपूजनं च
धर्मस्तथार्थश्च रतिः स्वदारैः।
निषेवितव्यानि सुखानि लोके
ह्यस्मिन्परे चैव मतं ममैतत्॥ 12-60-14(80767)
भरणं पुत्रदाराणां वेदानां चानुपालनम्।
सेवतामाश्रमं श्रेष्ठं वदन्ति परमर्षयः॥ 12-60-15(80768)
एवं हि यो ब्राह्मणो यज्ञशीलो
गार्हस्थ्यमध्यावसते यथावत्।
गृहस्थवृत्तिं प्रतिगाह्य सम्य
क्स्वर्गे विशुद्धं फलमश्नुते सः॥ 12-60-16(80769)
तस्य देहं परित्यज्य इष्टकामाक्षया मताः।
आनन्त्यायोपकल्पन्ते सर्वतोक्षिशिरोमुखाः॥ 12-60-17(80770)
वसन्नेको जपन्नेकः सर्वान्वेदान्युधिष्ठिर।
एकस्मिन्नेव चाचार्ये शुश्रूषुर्मलपङ्कवान्॥ 12-60-18(80771)
ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी।
`गुरुच्छायानुगो नित्यमधीयानः सुयन्त्रितः।'
अविचाल्यव्रतोपेतं कृत्यं कुर्वन्वसेत्सदा॥ 12-60-19(80772)
शुश्रूषां सततं कुर्वन्गुरोः संप्रणमेत च।
षट्कर्मस्वनिवृत्तश्च न प्रवृत्तश्च सर्वशः॥ 12-60-20(80773)
नाचरत्यधिकारेण सेवेत द्विषतो न च।
एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते॥ ॥ 12-60-21(80774)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षष्टितमोऽध्यायः॥ 60॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-60-2 क्रमो न विवक्षितः। चतुर्थं ब्राह्मणैर्वृतमिति झ. पाठः॥ 12-60-5 अक्षरसाम्यतमिति ट. द. पाठः॥ 12-60-6 एतानि द्विजत्वावाप्त्यादीनि॥ 12-60-7 मध्यममाश्रमद्वयमनित्यमित्याह चरितेति॥ 12-60-11 शठो धूर्तः। जिह्नः कुटिलः॥ 12-60-12 विधेयः गुरुशास्त्राज्ञापालकः। अप्रमत्तः अवहितः। सर्वेभ्यो लिङ्गयुक्तेभ्य आश्रमेभ्यः प्रदाताऽन्नादेः। लिङ्गप्रदातेति मध्यमपदलोपी समासः। वैतानं श्रौतकर्म तत्र नित्यः॥ 12-60-17 कामाः अक्षया इति च्छेदः। संधिरार्षः। सर्वतोक्षिशिरोमुखा इत्यनेन यत्रय देशे काले वा योग्यं संकल्पयति तत्सर्वं सद्य उपतिष्ठतीत्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|